विद्यावृत्तिक्षेत्रयोर्निर्णये अवधेयाः अंशाः सहकारिण्यः सरण्यश्च – होराहृदयावलोकनम्

oleh: Dr. Ramakrishna Pejathaya

Format: Article
Diterbitkan: SUGYAN KUMAR MAHANTY 2020-06-01

Deskripsi

विद्या वृत्तिश्च मानुषजीवनस्य मुख्यावंशौ । तस्मात् “कस्मिन् क्षेत्रे स्वा विद्या वृत्तिश्च सफला जायेत?” इति जिज्ञासया दैवज्ञमुपसर्पन्तो नैके विलोक्यन्ते लोकाः । अनयोरुभयोः उपजीव्योपजीवकभावोऽप्यस्तीत्यतः सहैव विचारः क्रियते दैवज्ञैः । किञ्च अनयोर्विचारे आवश्यकाः अंशाः होराग्रन्थेषु न एकत्र सम्प्रोक्ताः । सत्यपि कर्माजीवाख्येऽध्याये न तन्मात्रस्य अवलोकनम् अलम् इति विदन्त्येव विदः । तत्र प्रसङ्गान्तरेषु उक्ताः व्यक्ताश्च अंशाः सूक्ष्मं समीक्ष्यन्ते चेदेव फलादेशः समुचितो भवति । तदस्मिन् विषये व्यवस्थितं यथाशास्त्रं निरूपणं न क्वापि विलोकितम् इति हेतोः अत्यावश्यके तत्कर्मणि प्रवर्तते शोधपत्रमिदम् । अपि च, आधुनिकाः विद्यावृत्तयो बहुप्रकारा बहुसंख्याकाश्च । यथा यथा कालः पुरः सरति तथा तथा नवीनानां विद्यावृत्तीनाम् आविर्भावोऽपि निभाल्यतेऽस्माभिः । अतो न ताः सर्वा अपि समावेशयितुं शक्याः शास्त्रग्रन्थेषु, कालभेदेन तदसम्भाव्यत्वात् । तथापि सन्ति शास्त्रोल्लिखिताः बहवोंऽशाः, येषामाधारेण अर्वाचीनानामपि विद्यावृत्तीनां कारकत्वविवेकः शक्यः कर्तुम् । परन्त्वाधुनिकेषु ज्यौतिषिकेषु बहवः शास्त्रहृदयमिदमजानन्तः स्वकल्पनाभिरेव अशास्त्रीयानपि कारकत्वसम्बन्धान् प्रकल्प्य मलिनयन्ति शास्त्रसरणिमिति नाप्रत्यक्षं प्रेक्षावताम् । तस्मात् शास्त्रमर्यादामनुल्लङ्घ्य आधुनिकव्यवहारं सङ्गमय्य च विद्यावृत्तिक्षेत्रविचारः कथं कर्तव्य इति प्रपञ्चनमपि अत्र विहितमस्ति । तदनेनापि हेतुना पत्रमिदं भवत्युपादेयम् ।