न्यासदशकानुसारेण प्रपत्तिप्रतिपादनम्

oleh: Dr. V.Balaji

Format: Article
Diterbitkan: SUGYAN KUMAR MAHANTY 2019-12-01

Deskripsi

संसारभवबन्धमुक्तये दु:खादितापत्रयनिवारणाय , पतञ्जलिकपिलादिभि: ऋषिभि: कर्मयोग: राजयोग:, साङ्ख्ययोग:, भक्तियोग: इत्यादय: मार्गा: निर्दिष्टा: । नारदशाण्डिल्यादिभि: मुनिभि: भक्ति:,प्रपत्तिरिति नैके उपाया: प्रोक्ता: ।योगशास्त्रे तपस्वाध्यायेश्वरप्रणिधानानि क्रियायोग: इति वर्णित: । अत्र व्यासभाष्ये ईश्वरप्रणिधानं नाम सर्वक्रियाणां परमगुरावर्पणं तत्फ़लसंन्यासो वा इति प्रपत्तिरूपभारन्यास: प्रादर्शि भाष्यकारेण । प्रस्तुतलेखे श्रीमत: वेदान्ताचार्यस्य न्यासदशकाख्ये ग्रन्थे दशपद्येषु वर्णितन्यासविद्यायाः स्वरूपस्य विषये क्रमिकतया विचारोविहित: । सर्वसामान्यजनानां मोक्षप्राप्त्यर्थं भक्त्यपेक्षापि ऋजूपाय: प्रपत्ति: अथवा न्यास: विद्यते इति सुचारु प्रतिपादितम् ।