चार्वाकमते प्रत्यक्षस्य प्रामाण्यम्

oleh: Dr. V. Balaji

Format: Article
Diterbitkan: SUGYAN KUMAR MAHANTY 2020-06-01

Deskripsi

दृष्टिभूतस्य पदार्थजातस्य ज्ञानं दर्शनमिति उच्यते। तत्रादौ दर्शनस्य व्युत्पत्तिलभ्यार्थस्य परिज्ञानमावश्यकं प्रतीयते, यतो हि – दर्शनस्य उद्भवविषयं व्यापकतयाः विषयञ्च अज्ञात्वा अधिकं किमपि विज्ञातुं न शक्यते। दृश् धातोः करणार्थे ल्युट् प्रत्यये दर्शन शब्दः निष्पद्यते। तदवस्थायां दृश्यते अनेन इति दर्शनम् इत्याकारकी व्युत्पत्तिः प्रसिद्धा वर्तते। प्रपञ्चेऽस्मिन् अनादिकालादेव आध्यात्मिक-आधिभौतिक-आधिदैविकैः त्रिभिः दुःखै असकृत् प्रपीडितः सन् सर्वेऽपि मानवः मायाजनितदुःखसागरात् आत्मानमुद्धर्तुम् आत्यन्तिकसुखार्थं विलोकयति कञ्चिन्मार्गविशेषम्। स च मार्गः दर्शनादेव जायते। अथ किं नाम दर्शनमिति जिज्ञासायां – दृश्यते परमपुरुषार्थात्मकमार्ग अनेनेति व्युत्पत्या दर्शनपदार्थः सिद्ध्यति। भारतवर्षे तु विविधाः दार्शनिकसम्प्रदायाः दरीदृश्यन्ते। एकस्यैव सम्प्रदायस्य अनेके विचारकाः वर्तन्ते। तेषां विविधाः दार्शनिकचिन्तनग्रन्था अपि उपलभ्यन्ते। यद्यपि दार्शनिकसम्पदायेषु मतवैविध्यं विद्यते, तथापि सर्वेषां मूलभूतम् एकमेवास्ति, अर्थात् समेषां भारतीयदार्शनिकाणां चिन्तने मोक्षः लक्ष्यभूतमस्ति। तस्य विषयः उपनिषत्सु प्रतिपादितत्वात्, उपनिषदो हि वेदस्य शिरोभागतया श्रूयमाणत्वात्, वेदस्य अङ्गीकारानङ्गीकारभेदेन दर्शनस्य विभागः आस्तिक-नास्तिकभेदेन द्विधा कृतः, इमौ द्वावपि सम्प्रदायौ समानत्वेन कालचक्रे प्रथितौ भवतः। वैदिकयुगे इन्द्रवरुणादिदेवतानां प्रतिष्ठा सञ्जाता, एवमुपनिषत्सु ब्रह्मणः स्वरूपत्वादिकं प्रतिपादितम्। तासु प्रतिपादितम् एतत्तत्वं सर्वजनसाधारणानां कृते ज्ञातव्यत्वेन अर्थवत्वं नालभत। अत एते सामान्यजनाः उपनिषत्सु प्रतिपाद्यमानं तत्वं न समर्थितवन्तः। अन्ते परिणामत्वेन धर्मः, एवं ज्ञानमिति परम्पराभेदेन अनुस्यूततया इदानीमपि मार्गद्वयं तिष्ठति। नास्तिकदर्शनं निरन्तरप्रत्यक्षपरीक्षणेन सफलत्वं प्राप्तम्। एते श्रुतीनां प्रामाण्यं केनापि प्रकारेण न स्वीकुर्वन्ति। अत एते वेदबाह्या इति कथ्यन्ते। एतैः प्रतिपाद्यमानं तत्वं आस्तिकमतविरोधित्वेन अस्तीति कृत्वा एते चार्वाकादयः नास्तिका इत्युच्यन्ते। नास्तिकाः भौतिकवादिनः इत्यर्थः। नास्तिकदर्शनशिरोमणिरयं चार्वाकः। चारू रमणीया वाक् उक्तिः यस्य सः चार्वाकः इति व्युत्पत्तिः। अस्य मते प्रत्यक्षमेकमेव प्रमाणं भवति। अनुमानशब्दादयः अप्रत्यक्षप्रमाणत्वेन स्वीक्रियन्ते। सर्वे विषयाः सन्दिग्धाः अथवा भ्रमपूर्वका इत्येषां सिद्धान्तः।