Find in Library
Search millions of books, articles, and more
Indexed Open Access Databases
स्वामिनारायणभाष्यानुसारेण अक्षरब्रह्मणा सह जीवस्य ऐक्यं तत्फलञ्च
oleh: Krishna Gajendra Panda
Format: | Article |
---|---|
Diterbitkan: | SUGYAN KUMAR MAHANTY 2020-06-01 |
Deskripsi
वेदान्तशास्त्रे विविधस्थलेषु विभिन्नप्रकारकोपासनारीतय: दरीदृश्यन्ते। कुत्रचित्तु क्रतो: महिमा अपरत्र विद्याया अनिवार्यता उक्ता परब्रह्मोपासनायै। किं केवलं तपोव्रतजपोपोषणादिसाधनै: परमेश्वरप्राप्ति:? परमेश्वरस्य प्राप्त्यै परमेश्वरस्य उपासना कर्तव्या एव । सा उपासना कीदृशी? उपासना कथं कर्तव्येति प्रश्ने सति उदेति संशयः यत् परमात्मप्राप्तौ किम् अक्षरब्रह्मण: सेतुत्वेन उपयोग: कर्तव्यो वा नेति । अक्षरब्रह्म धनुषसदृश: जीवात्मा बाणसदृश: पुनश्च परब्रह्म तु लक्ष्यमुच्यत इत्यपि उपनिषदि लिखितम् । तर्हि परब्रह्मण: उपासना कथं कर्तव्या? अक्षरब्रह्मणा सह स्वस्य जीवात्मन: ऐक्यं विधाय उत अन्यथेति संशय उदेति एवञ्च तस्य किं फलम्? स्वामिभद्रेशदासविरचितस्वामिनारायणभाष्यानुसारेण अस्य प्रश्नस्य उत्तरं मया दीयते अस्मिन् शोधपत्रे ।