ऋग्वेदीयदार्शनिकसूक्तेषु सृष्टितत्त्वसमीक्षा

oleh: Sankar Mondal

Format: Article
Diterbitkan: SUGYAN KUMAR MAHANTY 2020-01-01

Deskripsi

मनुष्याणां तदितरेषाञ्च निवासस्थलभूतस्यास्य जगतः बहु कालात्प्रागेवोत्पत्तिरभूदिति तु निश्चप्रचमेव। परं कथंकारमस्य जगत उत्पत्तिर्जातेति चिन्तयद्भिर्यथाधुनिकैर्वैज्ञानिकैर्विविधानि तत्त्वानि आविष्कृतानि तथैवास्माकं पुरातनैः ऋषिभिरपि वैदिकसाहित्ये बहूनि तत्त्वानि उपनिबद्धानि। ऋग्वेदस्य नासदीयसूक्ते पुरुषसूक्ते हिरण्यगर्भसूक्ते च सृष्टितत्त्वानां भूयः समाहारोऽवलोक्यते। तथाहि ऋग्वेदे आम्नायते- “नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत्” (ऋग्वेदः, १/१२९/१) जगतो जन्म तर्हि कथमभवदिति चेत्तत्रैवाम्नायते - “तपसस्तन्महिनाजायत” (ऋग्वेदः, १/१२९/३) इति। पुरुषसूक्ते पुनः ऋषिणा नारायणेन परमात्मनः सकाशादेव अखिलप्रपञ्चस्यास्य सर्वेषां स्थावरजङ्गमात्मकानां च प्राणिनां सृष्टिरुदीरिता। स च पुरुषः- “सहस्रशीर्षा सहस्राक्षः सहस्रपात्” (ऋग्वेदः,१०/९०/१) स पुरुषः अखिलमिदं ब्रह्माण्डं ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थितः। स एव प्रलयानन्तरं सर्वप्राणिनां कर्मफलभोगाय स्वीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति, तस्मात् यदिदं भूतं भव्यं वर्तमानं च तत्सर्वं पुरुष एवेति निश्चप्रचम्। पुनश्च हिरण्यगर्भसूक्ते ऋषिः प्रजापतिः हिरण्यगर्भादेव समेषां सृष्टिरभवदिति प्रतिपादयति। प्रजापतिर्वै हिरण्यगर्भः अथवा हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते। तादृशः प्रजापतिर्हिरण्यगर्भः प्रपञ्चोत्पत्तेः प्राक् मायाध्यक्षात्परमात्मनः सकाशादजायत। तथा च आम्नातमृग्वेदे- “हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम”।।(१०/१२१/१) इति।